(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
3.174. अध्यायः 174
Mahabharata - Vana Parva - Chapter Topics
अर्जुनेन निवातकवचवधानन्तरं पुनः स्वगैप्रति प्रस्तानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
अर्जुन उवाच। 3-174-0x(2317)(22609)
अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया।
अदृश्यनास्त्रवीर्येण तानप्यहमयोधयम् ॥ 3-174-1(22610)
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः।
अच्छिन्दन्नुत्तमाङ्गानि यत्रयत्र स्म तेऽभवन् ॥ 3-174-2(22611)
ततो निवातकवचा वध्यमाना मया युधि।
संहृत्य रमायां सहसा प्राविशन्पुरमात्मनः ॥ 3-174-3(22612)
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने।
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ॥ 3-174-4(22613)
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च।
शतशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ॥ 3-174-5(22614)
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम्।
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ॥ 3-174-6(22615)
ततो निवातकवचा व्योम संछाद्य केवलम्।
अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ॥ 3-174-7(22616)
अन्तर्भूमिगताश्चान्ये हयानां चरणानथ।
व्यगृह्णन्दानवा घोरा रथचक्रे च भारत ॥ 3-174-8(22617)
विनिगृह्य हयांश्चान्ये रथं च मम युध्यतः।
सर्वतो मामविध्यन्त सरथं धरणीधरैः ॥ 3-174-9(22618)
पर्वतैरुपचीयद्भिः पतद्भिश्च तथाऽपरैः।
स देशो यत्रवर्तामि गुहेव समपद्यत ॥ 3-174-10(22619)
पर्वतैश्चाद्यमानोऽहं निगृहीतैश्च वाजिभिः।
अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ॥ 3-174-11(22620)
लक्षयित्वा च मां भीतमिदं वचनमब्रवीत्।
आर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ॥ 3-174-12(22621)
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम्।
देवराजस् दयितं वज्रमस्त्रं नराधिप ॥ 3-174-13(22622)
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च।
अमुञ्चं वज्रसंस्पर्शानायतान्निशिताञ्सरान् ॥ 3-174-14(22623)
ततो मायाश् ताः सर्वा निवातकवचांश्च तान्।
ते वज्रचोदिता बाणा वज्रभूताः रसमाविशन् ॥ 3-174-15(22624)
ते वज्रवेगविहता दानवाः पर्वतोपमाः।
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ॥ 3-174-16(22625)
अन्तर्भूमौ च येऽगृह्णन्दानवा रथवाजिनः।
अनुप्रविश्य तान्वाणाः प्राहिण्वन्यमसादनम् ॥ 3-174-17(22626)
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः।
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ॥ 3-174-18(22627)
न हयानां क्षतिः काचिन्न रथस् न मातलेः।
मम चादृश्यत तदा तदद्भुतमिवाभवत् ॥ 3-174-19(22628)
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत।
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ॥ 3-174-20(22629)
हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः।
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ॥ 3-174-21(22630)
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम्।
त्रासयन्रथघोषेण निवातकवचस्त्रियः ॥ 3-174-22(22631)
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान्।
रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः ॥ 3-174-23(22632)
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः।
शिलानामिव शैलेषु पतन्तीनामभूत्तदा ॥ 3-174-24(22633)
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन्।
बहुरत्नविचित्राणि शातकुम्भमयानि च ॥ 3-174-25(22634)
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम्।
विशिष्टं देवनगरादपृच्छं मातलिं ततः ॥ 3-174-26(22635)
इदमेवंविधं कस्माद्देवता न विशन्त्युत।
पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ॥ 3-174-27(22636)
मातलिरुवाच। 3-174-28x(2318)
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम्।
ततो निवातकवचैरितः प्रच्याविताः सुराः ॥ 3-174-28(22637)
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम्।
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ॥ 3-174-29(22638)
ततः शक्रेण भगवान्स्वयंभूरभिचोदितः।
विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ॥ 3-174-30(22639)
तत उक्तो भगवता दिष्टमत्रेति भारत।
भवितान्तस्त्वमप्येषां देहेनान्येन वृत्रहन् ॥ 3-174-31(22640)
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव।
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ॥ 3-174-32(22641)
कालस्य परिणामेन ततस्त्वमिह भारत।
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ॥ 3-174-33(22642)
दानवानां विनाशार्थं महास्त्राणां महद्बलम्।
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ॥ 3-174-34(22643)
उर्जुन उवाच। 3-174-35x(2319)
ततः प्रशाम्य नगरं दानवांश्च निहत्य तान्।
पुनर्मातलिना सार्धमगमं देवसद्म तत् ॥ 3-174-35(22644)
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-174-21 लक्ष्मणाः सारस्यः ॥ 3-174-35 प्रशाम्य प्रकर्षेण आलोच्य ॥
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.